Skip to content

195 passages

योगदर्शन

Yog Darshan · Yog Sutras

Explore Patanjali’s four padas. Choose a pada, then a sutra to read its commentary. Purchase book at - Yog Darshan.

समाधिपाद Samadhi Pada

1.1 अथ योगानुशासनम् 1.2 योगश्चितवृत्तिनिरोधः 1.3 तदा द्रष्टु : स्वरूपेऽवस्थानम् 1.4 वृत्तिसारूप्यमितरत्र 1.5 वृत्तय : पञ्चतय्य : क्लिष्टाक्लिष्टा : 1.6 प्रमाणविपर्ययविकल्पनिद्रास्मृतय : 1.7 प्रत्यक्षानुमानागमा : प्रमाणानि 1.8 विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् 1.9 शब्दज्ञानानुपाती वस्तुुशून्यो विकल्प : 1.10 अभावप्रत्ययालम्बना वृत्तिर्निद्रा 1.11 अनुभूतविषयासम्प्रमोष : स्मृति : 1.12 अभ्यासवैराग्याभ्यां तन्निरोध : 1.13 तत्र स्थितौ यत्नोऽभ्यास : 1.14 स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमि : 1.15 दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् 1.16 तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् 1.17 वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञात : 1.18 विरामप्रत्ययाभ्यासपूर्व : संस्कारशेषोऽन्य : 1.19 भवप्रत्ययो विदेहप्रकृतिलयानाम् 1.20 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् 1.21 तीव्रसंवेगानामासन्न : 1.22 मृदुमध्याधिमात्रत्वात्ततोऽपि विशेष : 1.23 ईश्वरप्रणिधानाद्वा 1.24 क्लेशकर्मविपाकाशयैरपरामृष्ट : पुरुषविशेष ईश्वर : 1.25 तत्र निरतिशयं सर्वज्ञबीजम् 1.26 स एष पूर्वेषामपि गुरु: कालेनानवच्छेदात् 1.27 तस्य वाचक: प्रणव: 1.28 तज्जपस्तदर्थभावनम् 1.29 ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च 1.30 व्याधिस्त्यानसंशयप्रमादालस्यावि रतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तराया: 1.31 दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुव: 1.32 तत्प्रतिषेधार्थमेकतत्त्वाभ्यास: 1.33 मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् 1.34 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य 1.35 विषयवती वा प्रवृत्तिरुत्पन्ना मनस: स्थितिनिबंधनी 1.36 विशोका वा ज्योतिष्मती 1.37 वीतरागविषयं वा चित्तम् 1.38 स्वप्ननिद्राज्ञानालम्बनं वा 1.39 यथाभिमतध्यानाद्वा 1.40 परमाणुपरममहत्त्वान्तोऽस्य वशीकार: 1.41 क्षीणवृत्तेरभिजातस्येव मणे र्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्ति: 1.42 तत्र शब्दार्थज्ञानविकल्पै: संकीर्णा सवितर्का समापत्ति: 1.43 स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का 1.44 एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता 1.45 सूक्ष्म विषयत्वं चालिङ्गपर्यवसानम् 1.46 ता एव सबीज: समाधि: 1.47 निर्विचारवैशारद्येऽध्यात्मप्रसाद: 1.48 ऋतम्भरा तत्र प्रज्ञा 1.49 श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् 1.50 तज्ज: संस्कारोंऽन्यसंस्कारप्रतिबन्धी 1.51 तस्यापि निरोधे सर्वनिरोधान्निर्बीज: समाधिः

साधनपाद Sadhana Pada

2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोग: 2.2 समाधिभावनार्थ: क्लेशतनूकरणार्थश्च 2.3 अविद्याऽस्मितारागद्वेषाभिनिवेशा: पञ्च कलेशा: 2.4 अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् 2.5 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या 2.6 दृग्दर्शनशक्त्योरेकात्मतेवास्मिता 2.7 सुखानुशयी राग: 2.8 दुःखानुशयी द्वेष: 2.9 स्वरसवाही विदुषोऽपि तथारुढोऽभिनिवेश: 2.10 ते प्रतिप्रसवहेया: सूक्ष्मा: 2.11 ध्यानहेयास्तद्वृत्तय: 2.12 क्लेशमूल: कर्माशयो दृष्टादृष्टजन्मवेदनीय: 2.13 सति मूले तद्विपाको जात्यायुर्भोगा: 2.14 ते ह्लादपरितापफला: पुण्यापुण्यहेतुत्वात् 2.15 परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिन: 2.16 हेयं दुःखमनागतम् 2.17 द्रष्ट्टदृश्ययो: संयोगो हेयहेतु: 2.18 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थां दृश्यम् 2.19 विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि 2.20 द्रष्टा दृशिमात्र: शुद्धोऽपि प्रत्ययानु पश्य: 2.21 तदर्थ एव दृश्यस्यात्मा 2.22 कृतर्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् 2.23 स्वस्वामिशक्त्यो: स्वरूपोपलब्धिहेतु: संयोग: 2.24 तस्य हेतुरविद्या 2.25 तदभावात्संयोगाभावो हानं तद् दृशे: कैवल्यम् 2.26 विवेकख्यातिरविप्लवा हनोपाय: 2.27 तस्य सप्तधा प्रान्तभूमि: प्रज्ञा 2.28 योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञान दीप्तिराविवेकख्याते: 2.29 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि 2.30 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा: 2.31 जातिदेशकालसमयानवच्छिन्ना: सार्वभौमा महाव्रतम् 2.32 शौचसन्तोषतप: स्वाध्यायेश्वर प्रणिधानानि नियमा: 2.33 वितर्कबाधने प्रतिपक्षभावनम् 2.34 वितर्का हिंसादय: कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् 2.35 अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्याग: 2.36 सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् 2.37 अस्तेयप्रतिष्ठायां सर्वरत्नो पस्थानम् 2.38 ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः 2.39 अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोध: 2.40 शौचात्स्वाङ्गजुगुप्सा परैरसंसर्ग: 2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रिय जयात्मदर्शनयोग्यत्वानि च 2.42 सन्तोषादनुत्तमसुखलाभ: 2.43 कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपस: 2.44 स्वाध्यायादिष्टदेवतासम्प्रयोग: 2.45 समाधिसिद्धिरीश्वरप्रणिधानात् 2.46 स्थिरसुखमासनम् 2.47 प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् 2.48 ततो द्वन्द्वानभिघात: 2.49 तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेद: प्राणायाम: 2.50 बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभि: परिदृष्टो दीर्घसूक्ष्म: 2.51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थ: 2.52 तत: क्षीयते प्रकाशावरणम् 2.53 धारणासु च योग्यता मनस: 2.54 स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहार: 2.55 तत: परमा वश्यतेन्द्रियाणाम्

विभूतिपाद Vibhuti Pada

3.1 देशबन्धश्चितस्य धारणा 3.2 तत्र प्रत्ययैकतानता ध्यानम् 3.3 तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः 3.4 त्रयमेकत्र संयम: 3.5 तज्जयात् प्रज्ञालोक: 3.6 तस्य भूमिषु विनियोगः 3.7 त्रयमन्तरङ्गं पूर्वेभ्य: 3.8 तदपि बहिरङ्गं निर्बीजस्य 3.9 व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोध परिणाम: 3.10 तस्य प्रशान्तवाहिता संस्कारात् 3.11 सर्वार्थतैकाग्रतयो: क्षयोदयौ चित्तस्य समाधिपरिणाम: 3.12 तत: पुनः शान्तोदितौ तुल्यप्रत्ययौ चितस्यैकाग्रता परिणाम: 3.13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याता: 3.14 शान्तोदिताव्यपदेश्यधर्मानुपातीधर्मी 3.15 क्रमान्यत्वं परिणामान्यत्वे हेतु: 3.16 परिणामत्रयसंयमादतीतानागत ज्ञानम् 3.17 शब्दार्थप्रत्ययानामितरेतरा ध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् 3.18 संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् 3.19 प्रत्ययस्य परचित्तज्ञानम् 3.20 न च तत्सालम्बनं तस्याविषयीभूतत्वात् 3.21 कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षु:प्रकाशासम्प्रयोगेऽन्तर्द्धानम् 3.22 सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा 3.23 मैत्र्यादिषु बलानि 3.24 बलेषु हस्तिबलादीनि 3.25 प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् 3.26 भुवनज्ञानं सूर्ये संयमात् 3.27 चन्द्रे ताराव्यूहज्ञानम् 3.28 ध्रुवे तद्गतिज्ञानम् 3.29 नाभिचक्रे कायव्यूहज्ञानम् 3.30 कण्ठकूपे क्षुत्पिपासानिवृत्ति: 3.31 कूर्म नाड्यां स्थैर्यम् 3.32 मूर्धज्योतिषि सिद्धदर्शनम् 3.33 प्रातिभाद् वा सर्वम् 3.34 हृदये चित्तसंवित् 3.35 सत्त्वपुरुषयोरत्यन्तासंकीर्णयो: प्रत्ययाविशेषो भोग: परार्थत्वात् स्वार्थसंयमात्पुरुषज्ञानम् 3.36 तत: प्रातिभश्रावणवेदनादर्शा स्वादवार्ता जायन्ते 3.37 ते समाधावुपसर्गा व्युत्थाने सिद्धयः 3.38 बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेश: 3.39 उदानजयाज्जलपङ्क कण्टकादिष्वसङ्ग उत्क्रान्तिश्च 3.40 समानजयाज्ज्वलनम् 3.41 श्रोत्राकाशयो: सम्बन्धसंयमाद् दिव्यं श्रोत्रम् 3.42 कायाकाशयो: सम्बन्ध संयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् 3.43 बहिरकल्पितावृत्तिर्महाविदेहा तत: प्रकाशावरणक्षय: 3.44 स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजय: 3.45 ततोऽणिमादिप्रादुर्भाव: कायसम्पत्तद्धर्मानभिघातश्च 3.46 रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् 3.47 ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजय: 3.48 ततो मनोजवित्वं विकरण भाव: प्रधानजयश्च 3.49 सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च 3.50 तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् 3.51 स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् 3.52 क्षणतत्क्रमयो: संयमाद्विवेकजं ज्ञानम् 3.53 जातिलक्षणदेशैरन्यताऽवच्छेदात्तुल्योस्तत: प्रतिपत्ति: 3.54 तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् 3.55 सत्त्वपुरुषयो: शुद्धिसाम्ये कैवल्यमिति

कैवल्यपाद Kaivalya Pada

4.1 जन्मौषधिमन्त्रतप: समाधिजा: सिद्धयः 4.2 जात्यन्तरपरिणाम: प्रकृत्यापूरात् 4.3 निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु तत: क्षेत्रिकवत् 4.4 निर्माणचित्तान्यस्मितामात्रात् 4.5 प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् 4.6 तत्र ध्यानजमनाशयम् 4.7 कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् 4.8 ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् 4.9 जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् 4.10 तासामनादित्वं चाशिषो नित्यत्वात् 4.11 हेतुफलाश्रयालम्बनै: संगृहीतत्वादेषामभावे तदभाव: 4.12 अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् 4.13 ते व्यक्तसूक्ष्मा गुणात्मान: 4.14 परिणामैकत्वाद्वस्तुतत्त्वम् 4.15 वस्तुसाम्ये चित्तभेदात्तयोर्विभक्त: पन्था: 4.16 न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् 4.17 तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् 4.18 सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभो: पुरुषस्यापरिणामित्वात् 4.19 न तत्स्वाभासं दृश्यत्वात् 4.20 एकसमये चोभयानवधारणम् 4.21 चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्ग: स्मृतिसंकरश्च 4.22 चित्तेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् 4.23 द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् 4.24 तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् 4.25 विशेषदर्शिनआत्मभावभावनाविनिवृत्ति: 4.26 तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् 4.27 तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्य: 4.28 हानमेषां क्लेशवदुक्तम् 4.29 प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघ: समाधि: 4.30 तत: क्लेशकर्मनिवृत्ति: 4.31 तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् 4.32 तत: कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् 4.33 क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्य: क्रम: 4.34 पुरुषार्थशून्यानां गुणानां प्रतिप्रसव: कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति